३.३४
युवा युगव्यायतबाहुरंसलः कपाटवक्षाः परिणद्धकंधरः ।
वपुः प्रकर्षादजयद्गुरुं रघुस्तथापि नीचौर्विनयाददृश्यत ॥
सञ्जीविनीटीका (मल्लिनाथः) युवति॥ युवा। युगो नाम धुर्यस्कन्धगः सच्छिद्रप्रान्तो यानाङ्गभूतो दारुविशेषः। यानाद्यङ्गे युगः पुंसि युगं युग्मे कृतादिषु इत्यमरः (अमरकोशः ३.३.३० ) । युगवद्व्यायतौ दीर्घौ बाहू यस्य सः। अंसावस्य स्त इत्यंसलो बलवान्। मांसलश्चेति वृत्तिकारः। बलवान्मांसलोंऽसलः इत्यमरः (अमरकोशः ३.३.३० ) वत्सांसाभ्यां कामबले (अष्टाध्यायी ५.२.९८ ) इति लच्प्रत्ययः। कपाटवक्षाः परिणद्धकंधरो विशालग्रीवः। परिणाहो विशालता इत्यमरः (अमरकोशः ३.३.३० ) । रघुर्वपुषः प्रकर्षादाधिक्याद्यौवनकृताद्गुरुं पितरमजयत्। तथापि विनयान्नम्रत्वेन नीचैरल्पकोऽदृश्यत॥ अनौद्धत्यं च विवक्षितम्॥
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१०१११२
यु वायु व्या बाहु रं लः
पा क्षाःरिद्ध कं रः
पुःप्र र्षाद्गु रुंघु
स्त थापि नी चौर्वि या दृश्य
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.