३.३२
महोक्षतां वत्सतरः स्पृशन्निव द्विपेन्द्रभावं कलभः श्रयन्निव ।
रघुः क्रमाद्यौवनभिन्नशैशवः पुपोप गाम्भीर्यमनोहरं वपुः ॥
सञ्जीविनीटीका (मल्लिनाथः) महोक्षतामिति॥ रघुः क्रमाद्यौवनेन भिन्नशैशवो निरस्तशिशुभावः सन्। महानुक्षा महोक्षो महर्षभः। अचतुर- (अष्टाध्यायी ५.४.७७ ) आदिसूत्रेण निपातनादकारान्तत्वम्, तस्य भावस्तत्ता। तां स्पृशन्गच्छन् वत्सतरो दम्य इव।दम्यवत्सतरौ समौ इत्यमरः (अमरकोशः २.९.६३ ) । द्विपेन्द्रभावं महागजत्वं श्रयन्व्रजन् कलभः करिपोत इव। गाम्भीर्येणाचापलेन मनोहरं वपुः पुपोष॥
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१०१११२
होक्ष तांत्स रःस्पृन्नि
द्वि पेन्द्र भा वं भःश्रन्नि
घुःक्र मा द्यौ भिन्न शै वः
पु पो गा म्भीर्य नो रं पुः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.