३.३०
धियः समग्रैः स गुणैरुदारधीः क्रमाञ्चतस्रश्चतुरर्णवोपमाः ।
ततार विद्याः पवनातिपातिभिर्दिशो हरिद्भिर्हरितामिवेश्वरः ॥
सञ्जीविनीटीका (मल्लिनाथः) धिय इति॥ अत्र कामन्दकः-शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा। ऊहापोहोऽर्थविज्ञानं तत्त्वज्ञानं च धीगुणाः॥ इति। आन्वीक्षिकी त्रयी वार्ता दण्डनीतिश्च शाश्वती। एता विद्याश्चतस्रस्तु लोकसंस्थितिहेतवः॥ इति च। उदारधीरुत्कृष्टबुद्धिः स रघुः समग्रैर्धियो गुणैः। चत्वारोऽर्णवा उपमा यासां ताश्चतुरर्णवोपमाः। तद्धितार्थोत्तरपदसमाहारे च (अष्टाध्यायी २.१.४१ ) इत्युत्तरपदसमासः। चतस्रो विद्याः। हरितां दिशामीश्वरः सूर्यः पवनातिपातिभिर्हरिद्भिर्निजाश्वैः। हरित्ककुभि वर्णे च तृणवाजिविशेषयोः इति विश्वः। चतस्रो दिश इव। क्रमात्ततार। चतुरर्णवोपमत्वं दिशामपि द्रष्टव्यम् ॥
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१०१११२
धि यः ग्रैःगु णैरु दा धीः
क्र माञ्च स्रश्चतुर्ण वो माः
ता वि द्याः नाति पातिभि
र्दि शो रि द्भिर्हरि तामि वेश्व रः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.