३.२४
रथाङ्गनाम्नोरिव भावबन्धनं बभूव यत्प्रेम परस्पराश्रयम् ।
विभक्तमप्येकसुतेन तत्तयोः परस्परस्योपरि पयचीयत ॥
सञ्जीविनीटीका (मल्लिनाथः) रथाङ्गेति॥ रथाङ्गनाम्नी च रथाङ्गनामा च रथाङ्गनामानो चक्रवाकौ। पुमान्स्त्रिया (अष्टाध्यायी १.२.६७ ) इत्येकशेषः। तयोरिव तयोर्दपत्योर्भावबन्धनं हृदयाकर्षकं परस्पराश्रयमन्योन्यविषयं यत्प्रेम बभूव तदेकेन केवलेन ताभ्यामन्येन वा। एके मुख्यान्यकेवलाः इत्यमरः (अमरकोशः ३.३.१६ ) । सुतेन विभक्तमपि कृतविभागमपि परस्परस्योपरि पर्यचीयत ववृधे। कर्मकर्तरि लिट्। अकृत्रिमत्वात्स्वयमेवोपचितमित्यर्थः। यदेकाधारं वस्तु तदाधारद्वये विभज्यमानं हीयते। अत्र तु तयोः प्रागेकैककर्तृकमेकैकविषयं प्रेम संप्रति द्वितीयविषयलामेऽपि नाहीयत, प्रत्युतोपचितमेवाभूदिति भावः ॥
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१०१११२
थाङ्ग ना म्नोरि भान्ध नं
भू त्प्रेस्प राश्र यम्
विक्त प्येसु तेत्त योः
स्प स्योरि ची
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.