३.२३
उमावृषाङ्कौ शरजन्मना यथा यथा जयन्तेन शचीपुरंदरौ ।
तथा नृपः सा च सुतेन मागधी ननन्दतुस्तत्सदृशेन तत्समौ ॥
सञ्जीविनीटीका (मल्लिनाथः) उमेति॥ उमावृषाङ्कौ पार्वती-वृषभध्वजौ शरजन्मना कार्तिकेयेन। कार्तिकेयो महासेनः शरजन्मा षडाननः इत्यमरः (अमरकोशः १.१.४८ ) । यथा ननन्दतुः। शचीपुरंदरौ जयन्तेन जयन्ताख्येन सुतेन। जयन्तः पाकशासनिः इत्यमरः (अमरकोशः १.१.४८ ) । यथा ननन्दतुः। तथा तत्समौ ताभ्यामुमान्वृषाङ्काभ्यां शची-पुरंदराभ्यां च समौ समानौ सा मागधी नृपश्च तत्सदृशेन ताभ्यां कुमार-जयन्ताभ्यां सदृशेन सुतेन ननन्दतुः। मागधी प्रग्व्याख्याता ॥
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१०१११२
मावृ षा ङ्कौन्म ना था
था न्ते चीपु रं रौ
थानृ पः सासु ते मा धी
न्द तु स्तत्सदृ शेत्स मौ
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.