३.२२
पितुः प्रयत्नात्स समग्रसंपदः शुभैः शरीरावयवैर्दिने दिने ।
पुपोष वृद्धिं हरिदश्वदीधितेरनुप्रवेशादिव बालचन्द्रमाः ॥
सञ्जीविनीटीका (मल्लिनाथः) पितुरिति॥ स रघुः समग्रसंपदः पूर्णलक्ष्मीकस्य पितुर्दिलीपस्य प्रयत्नाच्छुभैर्मनोहरैः शरीरावयवैः। हरिदश्वदीधितेः सूर्यस्य रश्मेः। भास्वद्विवस्वत्सप्ताश्वहरिदश्वोष्णरश्मयः इत्यमरः (अमरकोशः १.३.३१ ) । अनुप्रवेशाद्बालचन्द्रमा इव। दिने दिने प्रतिदिनम्। नित्यवीप्सयोः (अष्टाध्यायी ८.१.४ ) इति द्विर्वचनम्। वृद्धिं पुपोष। अत्र वराहसंहितावचनम्-सलिलमये शशिनि रवेर्दीधितयो मूर्च्छितास्तमोनैशम्। क्षपयन्ति दर्पणोदरनिहिता इव मन्दिरस्यान्तः॥ इति ॥
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१०१११२
पि तुःप्र त्नात्सग्र सं दः
शु भैः री रा वैर्दि नेदि ने
पु पो वृ द्धिंरिश्व दीधि ते
नुप्र वे शादि बान्द्र माः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.