३.१८
स जातकर्मण्यखिले तपस्विना तपोवनादेत्य पुरोधसा कृते ।
दिलीपसूनुर्मणिराकरोद्भवः प्रयुक्तसंस्कार इवाधिकं बभौ ॥
सञ्जीविनीटीका (मल्लिनाथः) स इति॥ स दिलीपसूनुः। सपस्विना पुरोधसा पुरोहितेन। पुरोधास्तु पुरोहितः इत्यमरः (अमरकोशः २.८.५ ) । वसिष्ठेन। तपस्वित्वात्तदनुष्ठितं कर्म सवीर्यं स्यादिति भावः। तपोवनादेत्यागत्य। अखिले समग्रे जातकर्मणि जातस्य कर्तव्यसंस्कारविशेषे कृते सति। प्रयुक्तः संस्कारः शाणोल्लेखनादिर्यस्य स तथोक्तः। आकरोद्भवः खनिप्रभवः। खनिः स्त्त्रियामाकरः स्यात् इत्यमरः (अमरकोशः २.८.५ ) । मणिरिव। अधिकं बभौ। वसिष्ठमन्त्त्रप्रभावात्तेजिष्ठोऽभूदित्यर्थः। अत्र मनुः (२।२९)-प्राङ्नाभिवर्धनात्पुंसो जातकर्म विधीयते इति ॥
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१०१११२
जा र्मण्यखि लेस्वि ना
पो ना देत्यपु रो साकृ ते
दि ली सू नुर्मणि रा रोद्भ वः
प्र युक्त सं स्का वाधि कं भौ
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.