३.१६
जनाय शुद्धान्तचराय शंसते कुमारजन्मामृतसंमिताक्षरम् ।
अदेयमासीत्त्रयमेव भूपतेः शशिप्रभ छत्रमुभे च चामरे ॥
सञ्जीविनीटीका (मल्लिनाथः) जनायेति॥ भूपतेर्दिलीपस्यामृतसंमिताक्षरममृतसमानाक्षरम्। सरूपसमसंमिताः इत्याह दण्डी। कुमारजन्म पुत्रोत्पत्तिं शंसते कथयते शुद्धान्तचरायान्तःपुरचारिणे जनाय त्रयमेवादेयमासीत्। किं तत्? शशिप्रभमुज्ज्वलं छत्रम्। उभे चामरे च, छत्रादीनां राज्ञः प्रधानाङ्गत्वादिति भावः ॥
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१०१११२
ना शु द्धान्त रा शं ते
कु मा न्मामृ संमि ताक्ष रम्
दे मा सीत्त्र मे भू तेः
शिप्रत्रमु भे चा रे
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.