३.१५
अरिष्टशय्यां परितो विसारिणा सुजन्मनस्तस्य निजेन तेजसा ।
निशीथदीपाः सहसा हतत्विषो बभूवुरालेख्यसमर्पिता इव ॥
सञ्जीविनीटीका (मल्लिनाथः) अरिष्टेति॥ अरिष्टं सूतिकागृहम् इत्यमरः (अमरकोशः २.२.८ ) । अरिष्टे सूतिकागृहे शय्यां तल्पं परितः सर्वतः। अभितः परितः समयानिकषाप्रतियोगेऽपि(वा.१४२२) इति द्वितीया। विसारिणा। सुजन्मनः शोभनोत्पत्तेः। जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः इत्यमरः (अमरकोशः २.२.८ ) । तस्य शिशोर्निजेन नैसर्गिकेण तेजसा सहसा हतत्विषः क्षीणकान्तयो निशीथदीपा अर्धरात्रप्रदीपाः अर्धरात्रनिशीथौद्वौ इत्यमरः (अमरकोशः २.२.८ ) । आलेख्ये चित्रे समर्पिता इव बभूवुः। निशीथशब्दो दीपानां प्रभाधिक्यसंभावनार्थः॥
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१०१११२
रिष्ट य्यांरि तोवि सारि णा
सुन्म स्तस्यनि जे ते सा
नि शी दी पाः सात्वि षो
भूवु रा लेख्यर्पि ता
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.