३.१३
ग्रहैस्ततः पञ्चभिरुञ्चसंश्रयैरसूर्यगैः सूचितभाग्यसंपदम् ।
असूत पुत्रं समये शचीसमा त्रिसाधना शक्तिरिवार्थमक्षयम् ॥
सञ्जीविनीटीका (मल्लिनाथः) ग्रहैरिति॥ ततः शच्येन्द्राण्या समा। पुलोमजा शचीन्द्राणी इत्यमरः (अमरकोशः १.१.५५ ) । सा सुदक्षिणा समये प्रसूतिकाले सति। दशमे मासीत्यर्थः। दशमे मासि जायते इति श्रुतिः। उच्ञ्चसंश्रयैरुञ्चसंस्थैस्तुङ्गस्थानगैरसूर्यगैरनस्तमितैः कैश्चिद्यथासंभवं पञ्चभिर्ग्रहैः सूचिता भाग्यसंपद्यस्य तं पुत्रम्। त्रीणि प्रभावमन्त्रोत्साहात्मकानि साधनान्युत्पादकानि यस्याः सा त्रिसाधना शक्तिः। शक्तयस्तिस्रः प्रभावोत्साहमन्त्त्रजाः इत्यमरः (अमरकोशः १.१.५५ ) । अक्षयमर्थमिव। असूत। षूङ् प्राणिगर्भविमोचने इत्यात्मनेपदिषु पठ्यते। तस्माद्धातोः कर्तरि लङ्। अत्रेदमनुसंधेयम्-अजवृषभमृगाङ्गनाकुलीरा झषवणिजौ च दिवाकरादितुङ्गाः। दशशिखिमनुयुक्तिथीन्द्रियांशैस्त्त्रिनवकविंशतिभिश्च तेऽस्तनीचाः॥(बृ.जा.) इति। सूर्यादीनां सप्तानां ग्रहाणां मेषवृषभादयो राशयः श्लोकोक्तक्रमविशिष्टा उञ्चस्थानानि। स्वस्वतुङ्गापेक्षया सप्तमस्थस्थानानि च नीचानि। तत्रोञ्चेष्वपि दशमादयो राशित्रिंशांशा यथाक्रममुञ्चेषु परमोञ्चा नीचेषु परमनीचा इति जातकश्लोकार्थः। अत्रांशस्त्त्रिंशो भागः। यथाह नारदः-त्रिंशद्भागात्मकं लग्नम् इति। सूर्यप्रत्यासत्तिर्ग्रहाणामस्तमयो नाम्। तदुक्तं लघुजातके-रविणास्तमयो योगो वियोगस्तूदयो भवेत् इति। ते च स्वोञ्चस्थाः फलान्ति नास्तगा नापि नीचगाः। तदुक्तं राजमृगाङ्के-स्वोञ्चे पूर्णं स्वर्क्षकेऽर्धं सुहृद्भे पादं द्विङ्भेऽल्पं शुभं खेचरेन्द्रः। नीचस्थायी नास्तगो वा न किंचित्पादं नूनं स्वत्रिकोणे ददाति॥ इति। तदिदमाह कविः-उञ्चसंश्रयैरसूर्यगैः इति च। एवं सति यस्य जन्मकाले पञ्चप्रभृतयो ग्रहाः स्वोञ्चस्थाः स एव तुङ्गो भवति। तदुक्तं कूटस्थीये-सुखिनः प्रकृष्टकार्या राजप्रतिरूपकाश्च राजानः। एकद्वित्रिचतुर्भिर्जायन्तेऽतः परं दिव्याः॥ इति। तदिदमाह-पञ्चभिरिति ॥
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१०१११२
ग्र हैस्त तःञ्चभि रुञ्च संश्र यै
सूर्य गैः सूचि भाग्य सं दम्
सू पु त्रं ये ची मा
त्रि सा नाक्तिरि वार्थक्ष यम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.