३.१२
कुमारभृत्याकुशलैरनुष्ठिते भिषग्भिराप्तैरथ गर्भभर्मणि ।
पतिः प्रतीतः प्रसवोन्मुखीं प्रियां ददर्श काले दिवमभ्रितामिव ॥
सञ्जीविनीटीका (मल्लिनाथः) कुमारेति॥ अथ । कुमारभृत्या बालचिकित्सा। संज्ञायां समजनिषद- (अष्टाध्यायी ३.३.९९ ) इत्यादिना क्यप्। तस्यां कुशलैः कृतिभिः। कृती कृशलः इत्यमरः (अमरकोशः २.६.५७ ) । आप्तैर्हितैर्भिषग्भिर्वैद्यैः। भिषग्वैद्यौ चिकित्सकौ इत्यमरः (अमरकोशः २.६.५७ ) । गर्भस्य भर्मणि भरणे। भरणे पोषणे भर्म इति हैमः। भृतिर्भर्म इति शाश्वतः। मृञो मनिच्प्रत्ययः। गर्भकर्मणिइति पाठे गर्भाधानप्रतीतावौचित्यभङ्गः। अनुष्ठिते कृते सति। काले दशमे मासि। अन्यत्र, ग्रीष्मावसाने। प्रसवस्य गर्भमोवनस्योन्मुखीम्। आसन्नप्रसवामित्यर्थः। स्यादुत्पादे फले पुष्पे प्रसवो गर्भमोचने इत्यमरः (अमरकोशः २.६.५७ ) । प्रियां भार्याम्। अभ्राण्यस्याः संजातान्यभ्रिता ताम्। तदस्य संजातं तारकादिभ्य इतच् (अष्टाध्यायी ५.२.३६ ) इतीतच्प्रत्ययः। दिवमिव। पतिर्भर्ता प्रतीतो हृष्टः सन्। दिवः ख्याते हृष्टे प्रतीतः इत्यमरः (अमरकोशः २.६.५७ ) । ददर्श दृष्टवान्॥
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१०१११२
कु मा भृ त्याकु लै नुष्ठि ते
भिग्भि रा प्तैर्भर्मणि
तिःप्र ती तःप्र वोन्मु खींप्रि यां
र्श का लेदिभ्रि तामि
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.