३.११
सुरेन्द्रमात्राश्रितगर्भगौरवात्प्रयत्नमुक्तासनया गृहागतः ।
तयोपचाराञ्जलिखिन्नहस्तया ननन्द पारिप्लवनेत्रया नृपः ॥
सञ्जीविनीटीका (मल्लिनाथः) सुरेन्द्रेति॥ गृहागतो नृपः सुरेन्द्राणां लोकपालानां मात्राभिरंशैराश्रितस्यानुप्रविष्टस्य गर्भस्य गौरवाद्भारात् प्रयत्नेन मुक्तासनया। आसनादुत्थितयेत्यर्थः। उपचारस्याञ्जलावञ्जलिकरणे खिन्नहस्तया पारिप्लवनेत्रया तरलाक्ष्या। चञ्चलं तरलं चैव पारिप्लवपरिप्लवे इत्यमरः। तया सुदक्षिणया ननन्द। सुरेन्द्रमात्राश्रित- इत्यत्र मनुः(५।९६)- अष्टाभिश्च सुरेन्द्राणां मात्राभिर्निर्मितो नृपः इति ॥
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१०१११२
सु रेन्द्र मा त्राश्रिर्भ गौ वा
त्प्रत्न मु क्ता यागृ हा तः
यो चा राञ्जलि खिन्नस्त या
न्द पा रिप्ल नेत्र यानृ पः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.