२.९
विसृष्टपार्श्वानुचरस्य तस्य पार्श्वद्रुमाः पाशभृता समस्य ।
उदीरयामासुरिवोन्मदानामालोकशब्दं वयसां विरावैः ॥
सञ्जीविनीटीका (मल्लिनाथः) विसृष्टेति॥ विसृष्टाः पार्श्वानुचराः पार्श्ववर्तिनो जना येन तस्य। पाशभृता वरुणेन समस्य तुल्यस्य। प्रचेता वरुणः पाशी इत्यमरः (अमरकोशः १.१.७३ ) । अनुभावोऽनेन सूचितः। तस्य राज्ञः पार्श्वयोर्द्रुमाः। उन्मदानामुत्कटमदानां वयसां खगानाम्। खगबाल्यादिनोर्वयः इत्यमरः (अमरकोशः १.१.७३ ) । विरावैः शब्दैः। आलोकस्य शब्दं वाचकमालोकयेति शब्दम्। जयशब्दमित्यर्थः। आलोको जयशब्दः स्यात्इति विश्वः। उदीरयामासुरिवावदन्निव। इत्युत्प्रेक्षा॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
वि सृष्ट पा र्श्वानुस्यस्य
पा र्श्वद्रु माः पाभृ तास्य
दी या मासुरि वोन्म दा ना
मा लो ब्दं सांवि रा वैः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.