२.८
लताप्रतानोद्ग्रथितैः स कैशैरधिज्यधन्वा विचचार दावम् ।
रक्षापदेशान्मुनिहोमधेनोर्वन्यान्विनेष्यन्निव दुष्टसत्त्वान् ॥
सञ्जीविनीटीका (मल्लिनाथः) लतेति॥ लतानां वल्लीनां प्रतानैः कुटिलतन्तुभिरुद्ग्रथिता उन्नमय्य ग्रथिता ये केशास्तैरुपलक्षितः। इत्थंभूतलक्षणे (अष्टाध्यायी २.३.२१ ) इति तृतीया। स राजा। अधिज्यमारोपितमौर्वीकं धनुर्यस्य सोऽधिज्यधन्वा सन्। धनुषश्च (अष्टाध्यायी ५.४.१३२ ) इत्यनङादेशः। मुनिहोमधेनो रक्षापदेशाद्रक्षणव्याजात्। वन्यान् वने भवान् दुष्टसत्त्वान् दुष्टजन्तून्। द्रव्यासुव्यवसायेषु सत्त्वमस्त्त्री तु जन्तुषु इत्यमरः। विनेष्यञ्छिक्षयिष्यन्निव। दावं वनम्। वने च वनवह्नौ च दवो दाव इहेष्यते इति यादवः। विचचार। वने चचारेत्यर्थः। देशकालाघ्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणाम्इति दावस्य कर्मत्वम्॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
ताप्र ता नोद्ग्रथि तैः कै शै
धिज्य न्वावि चा दा वम्
क्षा दे शान्मुनि हो धे नो
र्व न्यान्वि ने ष्यन्नि दुष्ट त्त्वान्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.