२.१०
मरुत्प्रयुक्ताश्च मरुत्सखाभं तमर्च्यमारादभिवर्तमानम् ।
अवाकिरन्बाललताः प्रसूनैराचारलाजैरिव पौरकन्याः ॥
सञ्जीविनीटीका (मल्लिनाथः) मरुदिति॥ मरुत्प्रयुक्ता वायुना प्रेरिता बाललता आरात् समीपेऽभिवर्तमानम्। आराद्दूरसमीपयोः इत्यमरः (अमरकोशः ३.३.२५७ ) । मरुतो वायोः सखा मरुत्सखोऽग्निः। स इवाभातीति मरुत्सखाभः। आतश्चोपसर्गे (अष्टाध्यायी ३.१.१३६ ) इति कप्रत्ययः। तम्, अर्च्यं पूज्यं तं दिलीपं प्रसूनैः पुष्पैः। पौरकन्याः पौराश्च ताः कन्या आचारार्थैर्लाजैराचारलाजैरिव। अवाकिरन्। तस्योपरि निक्षिप्तवत्य इत्यर्थः। सखा हि सखायमागतमुपचरतीति भावः ॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
रुत्प्र यु क्ताश्च रुत्स खा भं
र्च्य मा राभिर्त मा नम्
वाकि न्बा ताःप्र सू नै
रा चा ला जैरि पौ न्याः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.