२.५३
क्षतात्किल त्रायत इत्युदग्रः क्षत्त्रस्य शब्दो भुवनेषु रूढः ।
राज्येन किं तद्विपरीतवृत्तेः प्राणैरुपक्रोशमलीमसैर्वा ॥
सञ्जीविनीटीका (मल्लिनाथः) क्षतादिति॥ क्षणु हिंसायाम् इति धातोः संपदादित्पात्क्विप्। गमादीनाम्(वा.४०७३) इति वक्तव्यादनुनासिकलोपे तुगागमे च क्षदिति रूपं सिद्धम्। क्षतो नाशात्त्रायत इति क्षत्त्रः। सुपि- (अष्टाध्यायी ३.२.४ ) इति योगविभागात्कः। तामेतां व्युत्पत्तिं कविरर्थतोऽनुक्रामति-क्षतादित्यादिना। उदग्र उन्नतः क्षत्त्रवर्णस्य शब्दो वाचकः। क्षत्त्रशब्द इत्यर्थः। क्षतात्त्रायत इति व्युत्पत्त्या भुवनेषु रूढः किल प्रसिद्धः। खलु। नाश्वकर्णादिवत्केवलरूढः किंतु पङ्कजादिवद्योगरूढ इत्यर्थः। ततः किमित्य आह-तस्यक्षत्त्रशब्दस्य विपरीतवृत्तेर्विरुद्धव्यापारस्य क्षतस्त्राणमकुर्वतः पुंसो राज्येन किम्? उपक्रोशमलीमसैर्निन्दामलिनैः। उपक्रोशोजुगुप्सा च कुत्सा निन्दा च गर्हणे इत्यमरः। ज्योत्स्नातमिस्रा- (अष्टाध्यायी ५.२.११४ ) इत्यादिना मलीमैसशब्दो निपातितः। मलीमसं तु मलिनं कञ्चरं मलदूषितम् इत्यमरः। तैः प्राणैर्वा किम्? निन्दितस्य सर्वं व्यर्थमित्यर्थः। एतेन एकातपत्रम्(२।४७)इत्यादिना श्लोकद्वयेनोक्तं प्रत्युक्तमिति वेदितव्यम् ॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
क्ष तात्कि त्रात्यु ग्रः
क्ष त्त्रस्य ब्दोभु नेषु रू ढः
रा ज्ये किंद्वि री वृ त्तेः
प्रा णैरु क्रो ली सै र्वा
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.