२.५
आस्वादवद्भिः कवलस्तृणानां कण्डूयनैर्दंशनिवारणैश्च ।
अव्याहतैः स्वैरगतैः स तस्याः सम्राट् समाराधनतत्परोऽभूत् ॥
सञ्जीविनीटीका (मल्लिनाथः) आस्वादवद्भिरिति॥ सम्राट् मण्डलेश्वरः। येनेष्टं राजसूयेन मण्डलस्येश्वरश्च यः। शास्ति यश्चाज्ञया राज्ञः स सम्राट् इत्यमरः (अमरकोशः २.५.२९ ) । स राजा। आस्वादवद्भी रसवद्भिः। स्वादयुक्तैरित्यर्थः। तृणानां कवलैर्ग्रासैः ग्रासस्तु कवलार्थकः इत्यमरः (अमरकोशः २.५.२९ ) । कण्डूयनैः खर्जनैः। दंशानां वनमक्षिकाणां निवारणैः। दंशस्तु वनमक्षिका इत्यमरः (अमरकोशः २.५.२९ ) । अव्याहतैरप्रतिहतैः स्वैरगतैः स्वच्छन्दगमनैश्च तस्या धेन्वाः समाराधनतत्परः शुश्रूषासक्तोऽभूत्। तदेव परं प्रधानं यस्येति तत्परः। तत्परे प्रसितासक्तौ इत्यमरः (अमरकोशः २.५.२९ )
छन्दः इन्द्रवज्रा [११: ततजगग]
छन्दोविश्लेषणम्
१०११
स्वा द्भिःस्तृ णा नां
ण्डू नै र्दंनि वा णैश्च
व्या तैः स्वै तैः स्याः
म्राट्स मा रात्प रो ऽभूत्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.