२.४९
अथैकधेनोरपराधचण्डाद्गुरोः कृशानुप्रतिमाद्विभेषि ।
शक्योऽस्य मन्युर्भवता विनेतुं गाः कोटिशः स्पर्शयता घटोध्नीः ॥
सञ्जीविनीटीका (मल्लिनाथः) अथेति॥ अथेति पक्षआन्तरे, अथवा। एकैव धेनुर्यस्य तस्मात्। अयं कोपकारणोपन्यास इति ज्ञेयम्। अत एवापराधे गवोपेक्षालक्षणे सति चण्डादतिकोपनात्। चण्डस्त्वत्यन्तकोपनः इत्यमरः (अमरकोशः ३.१.३२ ) । अत एव कृशानुः प्रतिमोपमा यस्य तस्मादग्निकल्पाद्गुरोर्बिभेषि इति काकुः। भीत्रार्थानां भयहेतुः (अष्टाध्यायी १.४.२५ ) इत्यपादानात्पञ्चमी। अल्पवित्तस्य धनहानिरतिदुःसहेति भावः। अस्य गुरोर्मन्युः क्रोधः। मन्युर्दैन्ये क्रतौ क्रुधि इत्यमरः (अमरकोशः ३.१.३२ ) । घटा इवोधांसि यासां ता घटोध्नीः। ऊधसोऽनङ् (अष्टाध्यायी ५.४.१३१ ) इत्यनङादेशः। बहुव्रीहेरूधसो ङीष् (अष्टाध्यायी ४.१.२५ ) इति ङीष्। कोटिशो गाः स्पर्शयता प्रतिपादयता। विश्राणनं वितरणं स्पर्शनं प्रतिपादनम् इत्यमरः (अमरकोशः ३.१.३२ ) । भवता विनेतुमपनेतुं शक्यः ॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
थै धे नो रा ण्डा
द्गु रोःकृ शा नुप्रति माद्वि भेषि
क्योऽस्य न्युर्भ तावि ने तुं
गाः कोटि शः स्पर्श ता टो ध्नीः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.