२.४२
प्रत्यब्रवीञ्चैनमिषुप्रयोगे तत्पूर्वभङ्गे वितथप्रयत्नः ।
जडीकृतस्त्त्र्यम्बकवीक्षणेन वज्रं मुमुक्षन्निव वज्रपाणिः ॥
सञ्जीविनीटीका (मल्लिनाथः) प्रतीति॥ स एव पूर्वः प्रथमो भङ्गः प्रतिबन्धो यस्य तस्मिस्तत्पूर्वभङ्ग इषुप्रयोगे वितथप्रयत्नो विफलप्रयासः। अत एव वज्रं कुलिशं मुमुक्षन् मोक्तुमिच्चन्। अम्बुकं लोचनम्। दृग्दृष्टिनेत्रलोचनचक्षुर्नयनाम्बकेक्षणाक्षीणिइति हलायुधः। त्रीण्यम्बकानि यस्य स त्र्यम्बको हरः। तस्य वीक्षणेन जडीकृतो निष्पन्दीकृतः। वज्रं पाणौ यस्य स वज्रपाणिरिन्द्रः।प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ भवत इति वक्तव्यम्(वा.१४१५) इति पाणेः सप्तम्यन्तस्योत्तरनिपातः। स इव स्थितो नृप एनं सिंहं प्रत्यब्रवीञ्च। बाहुं सवज्रं शक्रस्य क्रुद्धस्यास्तम्भयत्प्रभुः` इति महाभारते ॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
प्र त्यब्र वी ञ्चैमि षुप्र यो गे
त्पूर्व ङ्गेविप्र त्नः
डीकृ स्त्त्र्यम्ब वीक्ष णे
ज्रंमु मु क्षन्निज्र पा णिः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.