२.३३
तमार्यगृह्यं निगृहीतधेनुर्मनुष्यवाचा मनुवंशकेतुम् ।
विस्माययन्विस्मितमात्मवृत्तौ सिंहोरुसत्त्वं निजगाद सिंहः ॥
सञ्जीविनीटीका (मल्लिनाथः) तमिति॥ निगृहीता पीडिता धेनुर्येन स सिंहः। आर्याणां सतां गृह्यं पक्ष्यम्। पदास्वैरिबाह्यापक्ष्येषु च (अष्टाध्यायी ३.१.११९ ) इति क्यप्। मनुवंशस्य केतुं चिह्नं केतुवद्व्यावर्तकम्। सिंह इवोरुसत्त्वो महाबलस्तम्। आत्मनो वृत्तौ बाहुस्तम्भरूपे व्यापारेऽभूतपूर्वत्वाद्विस्मितम्। कर्तरि क्तः। तं दिलीपं मनुष्यवाचा करणेन। पुनर्विस्माययन् स्मयमाश्चर्यं प्रापयन्निजगाद। स्मिङ् ईषद्धसने इति धातोर्णिचि वृद्धावायादेशे शतृप्रत्यये च सति विस्माययन्निति रूपं सिद्धम्। विस्मापयन् इति पाठे पुगागममात्रं वक्यव्यम्। तञ्च नित्यं स्मयतेः (अष्टाध्यायी ६.१.५७ ) इति हेतुभयविवक्षायामेवेति भीस्म्योर्हेतुभये (अष्टाध्यायी १.३.६८ ) इत्यात्मनेपदे विस्मापयमान इति स्यात्। तस्मान्मनुष्यवाचा विस्माययन्निति रूपं सिद्धम्। करणविवक्षायां न कश्चिद्दोषः॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
मार्य गृ ह्यंनिगृ ही धेनु
र्म नुष्य वा चानु वं के तुम्
वि स्मा न्विस्मि मात्म वृ त्तौ
सिं होरु त्त्वंनि गा सिं हः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.