२.३२
बाहुप्रतिष्टम्भविवृद्धमन्युरभ्यर्णमागस्कृतमस्पृशद्भिः ।
राजा स्वतेजोभिरदह्यतान्तर्भोगीव मन्त्त्रौषधिरुद्धवीर्यः ॥
सञ्जीविनीटीका (मल्लिनाथः) बाह्विति॥ बाह्वोः प्रतिष्मम्भेन प्रतिबन्धेन। प्रतिबन्धः प्रतिष्टम्भः इत्यमरः (अमरकोशः ३.१.६६ ) । विवृद्धमन्युः प्रवृद्धरोषो राजा। मन्त्त्रौषधिभ्यां रुद्धवीर्यः प्रतिबद्धशक्तिर्भोगीसर्प इव। भोगी राजभुजंगयोः इति शाश्वतः। अभ्यर्णमन्तिकम्। उपकण्ठान्तिकाभ्यर्णाभ्यग्रा अप्यभितोऽव्ययम् इत्यमरः (अमरकोशः ३.१.६६ ) । आगस्कृतमपराधकारिणम्, अस्पृशद्भिः स्वतेजोभिरन्तरदह्यत। अधिक्षेपाद्यसहनं तेजः प्राणात्ययेष्वपि इति यादवः॥
छन्दः इन्द्रवज्रा [११: ततजगग]
छन्दोविश्लेषणम्
१०११
बा हुप्र ति ष्टम्भवि वृद्धन्यु
भ्यर्ण मास्कृस्पृ द्भिः
रा जास्व ते जोभिह्य तान्त
र्भो गी न्त्त्रौधि रुद्ध वी र्यः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.