२.३०
ततो मृगेन्द्रस्य मृगेन्द्रगामी वधाय वध्यस्य शरं शरण्यः ।
जाताभिषङ्गो नृपतिर्निषङ्गादुद्धर्तुमैच्छत्प्रसभोद्धृतारिः ॥
सञ्जीविनीटीका (मल्लिनाथः) तत इति॥ ततः सिंहदर्शनानन्तरं मृगेन्द्रगामी सिंहगामी। शरणं रक्षणम्। शरणं गृहरक्षित्रोः इत्यमरः (अमरकोशः ३.३.५९ ) शरणं रक्षणे गृहेइति यादवः। शरणे साधुः शरण्यः, तत्र साधुः (अष्टाध्यायी ४.४.९८ ) इति यत्प्रत्ययः। प्रसभेन बलात्कारेणोद्धृता अरयो येन स नृपती राजा जाताभिषङ्गो जातपराभवः सन्। अभिषङ्गः पराभवे इत्यमरः (अमरकोशः ३.३.५९ ) । वध्यस्य वधार्हस्य। दण्डादिभ्यो यत् (अष्टाध्यायी ५.१.६६ ) इति यत्प्रत्ययः। मृगन्द्रस्य वधाय निषङ्गात्तूणीरात् तूणोपासङ्गतूणीरनिषङ्गा इषुधिर्द्वयोः इत्यमरः (अमरकोशः ३.३.५९ ) । शरमुद्धर्तुमैच्छत् ॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
तोमृ गे न्द्रस्यमृ गेन्द्र गा मी
धा ध्यस्य रं ण्यः
जा ताभि ङ्गोनृ तिर्नि ङ्गा
दु द्धर्तु मै च्छत्प्र भोद्धृ ता रिः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.