२.३
निवर्त्य राजा दयितां दयालुस्तां सौरभेयीं सुरभिर्यशोभिः ।
पयोधरीभूतचतुःसमुद्रां जुगोप गोरूपधरामिवोर्वीम् ॥
सञ्जीविनीटीका (मल्लिनाथः) निवर्त्येति॥ दयालुः कारुणिकः। स्याद्दयालुः कारुणिकः इत्यमरः (अमरकोशः ३.१.१५ ) स्पृहिगृहि- (अष्टाध्यायी ३.२.१५८ ) इत्यादिनालुच्प्रत्ययः। यशोभिः सुरभिर्मनोज्ञः। सुरभिः स्यान्मनोज्ञेऽपि इति विश्वः। स राजा तां दयितां निवर्त्य सौरभेयीं कामधेनुसुतां नन्दिनीम्। धरन्तीति धराः। पचाद्यच्। पयसां धराः पयोधराः स्तनाः। स्त्रीस्तनाब्दौ पयोधरौ इत्यमरः (अमरकोशः ३.१.१५ ) । अपयोधराः पयोधराः संपद्यमानाः पयोधरीभूताः। अभूततद्भावे च्विः। कुगतिप्रादयः (अष्टाध्यायी २.२.१८ ) इति समासः। पयोधरीभूताश्चत्वारः समुद्रा यस्यास्ताम्। अनेकमन्यपदार्थे (अष्टाध्यायी २.२.२४ ) इत्यनेकपदार्थग्रहणसामर्थ्यात्त्रिपदो बहुव्रीहिः। गोरूपधरामुर्वीमिव। जुगोप ररक्ष। भूरक्षणप्रयत्नेनेव ररक्षेति भावः। धेनुपक्षे, -पयसा दुग्धेनाधरीभूताश्चत्वारः समुद्रा यस्याः सा तथोक्ता ताम्। दुग्धतिरस्कृतसागरामित्यर्थः॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
निर्त्य रा जायि तां यालु
स्तां सौ भे यींसु भिर्य शो भिः
यो री भू तुः मु द्रां
जु गो गो रू रामि वो र्वीम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.