२.२
तस्याः खुरन्यासपवित्रपुंसुमपांसुलानां धुरि कीर्तनीया ।
मार्गं मनुष्येश्वरधर्मपत्नी श्रुतेरिवार्थं स्मृतिरन्वगच्छत् ॥
सञ्जीविनीटीका (मल्लिनाथः) तस्या इति॥ पांसवो दोषा आसां सन्तीति पांसुलाः स्वैरिण्यः। स्वैरिणी पांसुला इत्यमरः (अमरकोशः २.६.११ ) सिध्मादिभ्यश्च (अष्टाध्यायी ५.२.९७ ) इति लच्प्रत्ययः। अपांसुलानां पतिव्रतानां धुर्यग्रे कीर्तनीया परिगणनीया मनुष्येश्वरधर्मपत्नी। खुरन्यासैः पवित्राः पांसवो यस्य तम्। रेणुर्द्वयोः स्त्रियां धूलिः पांसुर्ना न द्वयो रजः इत्यमरः (अमरकोशः २.६.११ ) । तस्या धेनोर्मार्गम्। स्मृतिर्मन्वादिवाक्यं श्रुतेर्वेदवाक्यस्यार्थमभिधेयमिव। अन्वगच्छदनुसृतवती च। यथा स्मृतिः श्रुतिक्षुण्णमेवार्थमनुसरति तथा सापि गोखुरक्षुण्णमेव मार्गमनुससारेत्यर्थः। धर्मपत्नीत्यत्राश्वघासादिवत्तादर्थ्ये षष्ठीसमासः, प्रकृतिविकाराभावात्। पांसुलपथप्रवृत्तावप्यपांसुलानामिति विरोधालंकारो ध्वन्यते॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
स्याःखु न्या वित्र पुंसु
पांसु ला नांधुरि कीर्त नी या
मा र्गं नु ष्येश्वर्म त्नी
श्रु तेरि वा र्थंस्मृतिन्व च्छत्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.