२.२६
अन्येद्युरात्मानुचरस्य भावं जिज्ञासमाना मुनिहोमधेनुः ।
गङ्गाप्रपातान्तविरूढशष्पं गौरीगुरोर्गह्वरमाविवेश ॥
सञ्जीविनीटीका (मल्लिनाथः) अन्येद्युरिति॥ अन्येद्युरन्यस्मिन्दिने द्वाविंशे दिने। सद्यः परुत्परारि- (अष्टाध्यायी ५.३.२२ ) इत्यादिना निपातनादव्ययम्। अद्यात्राह्लाय पूर्वेऽह्रीत्यादौ पूर्वोत्तरापरात् । तथाधरान्यान्यतरेतरात्पूर्वेंद्युरादयः ॥ इत्यमरः। मुनिहोमधेनुः आत्मानुचरस्य भावमभिप्रायं दृढभक्तित्वम्। भावोऽभिप्राय आशयः इति यादवः। जिज्ञासमाना ज्ञातुमिच्छन्ती। ज्ञाश्रुस्मृदृशां सनः (अष्टाध्यायी १.३.५७ ) इत्यात्मनेपदे शानच्। प्रपतत्यस्मिन्निति प्रपातः पतनप्रदेशः गङ्गायाः प्रपातस्तस्यान्ते समीपे विरूढानि जातानि शष्पाणि बालतृणानि यस्मिंस्तत्। शष्पं बालतृणं घासः इत्यमरः। गौरीगुरोः पार्वतीपितुर्गह्वरं गुहामाविवेश ॥
छन्दः इन्द्रवज्रा [११: ततजगग]
छन्दोविश्लेषणम्
१०११
न्येद्यु रा त्मानुस्य भा वं
जि ज्ञा मा नामुनि हो धे नुः
ङ्गाप्र पा तान्तवि रू ष्पं
गौ रीगु रो र्गह्व मावि वे
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.