२.२७
सा दुष्प्रधर्षा मनसापि हिंस्रैरित्यद्रिशोभाप्रहितेक्षणेन ।
अलक्षिताभ्युत्पतनो नृपेण प्रसह्य सिंहः किल तां चकर्ष ॥
सञ्जीविनीटीका (मल्लिनाथः) सेति॥ सा धेनुर्हिंस्रैर्व्याघ्रादिभिर्मनसाऽपि दुष्प्रधर्षा दुर्धर्षेति हेतोः, अद्रिशोभायां प्रहितेक्षणेन दत्तदृष्टिना नृपेणालक्षितमभ्युत्पतनमाभिमुख्येनोत्पतनं यस्य स सिंहस्तां धेनुं प्रसह्य हठात्। प्रसह्य तु हठार्थकम् इत्यमरः (अमरकोशः ३.४.१० ) । चकर्ष। किल इत्यलीके ॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
सा दुष्प्र र्षा सापि हिं स्रै
रि त्यद्रि शो भाप्रहि तेक्ष णे
क्षि ता भ्युत्प नोनृ पे
प्रह्य सिं हःकि तांर्ष
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.