२.१
अथ प्रजानामधिपः प्रभाते जायाप्रतिग्राहितगन्धमाल्याम् ।
वनाय पीतप्रतिबद्धवत्सां यशोधनो धेनुमृषेर्मुमोच ॥
सञ्जीविनीटीका (मल्लिनाथः) अथेति॥ अथ निशानयनानन्तरं यशोधनः प्रजानामधिपः प्रजेश्वरः प्रभाते प्रातःकाले जायया सुदक्षिणया प्रतिग्राहयित्र्या। प्रतिग्राहिते स्वीकारिते गन्धमाल्ये यया सा जायाप्रतिग्राहितगन्धमाल्या। तां तथोक्तम्। पीतं पानमस्यास्तीति पीतः। पीतवानित्यर्थः। अर्शआदिभ्योऽच् (अष्टाध्यायी ५.२.१२७ ) इत्यच्प्रत्ययः। पीता गावो भुक्ता ब्राह्मणाः इति महाभाष्ये दर्शनात्। पीतः प्रतिबद्धो वत्सो यस्यास्तामृषेर्धेनुं वनाय वनं गन्तुम्। क्रियार्थोपपद- (अष्टाध्यायी २.३.१४ ) इत्यादिना चतुर्थी। मुमोच मुक्तवान्। जायां पदसामर्थ्यात्सुदक्षिणायाः पुत्रजननयोग्यत्वमनुसंधेयम्। तथा हि श्रुतिः-पतिर्जायां प्रविशति गर्भो भूत्वेह मातरम्। तस्यां पुनर्नवो भूत्वा दशमे मासि जायते। तज्जाया जाया भवति यदस्यां जायते पुनः। इति। यशोधन इत्यनेन पुत्रवत्ताकीर्तिलोभाद्राजानर्हे गोरक्षणे प्रवृत्त इति गम्यते। अस्मिन्सर्गे वृत्तमुपजातिः-अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताःइति ॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
प्र जा नाधि पःप्र भा ते
जा याप्र ति ग्राहिन्ध मा ल्याम्
ना पीप्रतिद्ध त्सां
शो नो धेनुमृ षेर्मु मो
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.