२.१७
स पल्वलोत्तीर्णवराहयूथान्यावासवृक्षोन्मुखबर्हिणानि ।
ययौ मृगाध्यासितशाद्वलानि श्यामायमानानि वनानि पश्यन् ॥
सञ्जीविनीटीका (मल्लिनाथः) स इति॥ स राजा। पल्वलेभ्योऽल्पजलाशयभ्य उत्तीर्णानि निर्गतानि वराहाणां यूथानि कुलानि येषु तानि। बर्हाण्येषां सन्तीति बर्हिणा मयूराः। मयूरो बर्हिणो बर्ही इत्यमरः (अमरकोशः २.५.३२ ) । फलबर्हाभ्यामिनच्प्रत्ययो वक्तव्यः। आवासवृक्षा णामुन्मुखा बर्हिणा येषु तानि श्यामायमानानि वराहबर्हिणादिमलिनिम्ना श्यामानि। श्यामानि भवन्तीति श्यामायमानानि। लोहितादिडाज्भ्यः क्यष् (अष्टाध्यायी ३.१.१३ ) इति क्यष्प्रत्ययः। वा क्यषः (अष्टाध्यायी १.३.९० ) इत्यात्मनेपदे शानच्। मृगैरध्यासिता अधिष्ठिताः शाद्वला येषु तानि। शादाः शष्पाण्येषु देशेषु सन्तीति शाद्वलाः शष्पश्यामदेशाः। शाद्वलः शादहरिते इत्यमरः (अमरकोशः २.५.३२ ) शादः कर्दमशष्पयोः इति विश्वः। नडशादादूङ्वलच् (अष्टाध्यायी ४.२.८८ ) इति ड्वलच्प्रत्ययः। वनानि पश्यन्ययौ ॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
ल्व लो त्तीर्ण रा यू था
न्या वा वृ क्षोन्मुर्हि णानि
यौमृ गा ध्यासि शाद्व लानि
श्या मा मा नानि नानि श्यन्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.