२.१५
संचारपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुम् ।
प्रचक्रमे पल्लवरागताम्रा प्रभा पतङ्गस्य मुनेश्च धेनुः ॥
सञ्जीविनीटीका (मल्लिनाथः) संचारपूतानीति॥ पल्लवस्य रागो वर्णः पल्लवरागः। रागोऽनुरक्तौ मात्सर्ये क्लेशादौ लोहितादिषु इति शाश्वतः। स इव ताम्रा पल्लवरागताम्रा पतङ्गस्य सूर्यस्य प्रभा कान्तिः। पतङ्गः पक्षिसूर्ययोः इति शाश्वतः। मुनेर्धेनुश्च। दिगन्तराणि दिशामवकाशान्। अन्तरमवकाशावधिपरिधानान्तर्धिभादतादर्थ्ये इत्यमरः। संचारेण पूतानि शुद्धानि कृत्वा दिनान्ते सायंकाले निलयायास्तमयाय;धेनुपक्षे, -आलयाय च। गन्तुं प्रचक्रमे॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
सं चा पू तानिदिन्त राणि
कृ त्वादि ना न्तेनि या न्तुम्
प्रक्र मेल्ल रा ता म्रा
प्र भा ङ्गस्यमु नेश्च धे नुः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.