२.१३
पृक्तस्तुषारैर्गिरिनिर्झराणामनोकहाकम्पितपुष्पगन्धी ।
तमातपक्लान्तमनातपत्रमाचारपूतं पवनः सिषेवे ॥
सञ्जीविनीटीका (मल्लिनाथः) पृक्त इति॥ गिरिषु निर्झराणां वारिप्रवाहाणाम्। वारिप्रवाहो निर्झरो झरः इत्यमरः (अमरकोशः २.३.५ ) । तुषारः सीकरैः। तुषारौ ह्रिमसीकरौ इति शाश्वतः। पृक्तः संपृक्तोऽनोकहानां वृक्षाणामाकम्पितानीषत्कम्पितानि पुष्पाणि तेषां यो गन्धः सोऽस्यास्तीत्याकम्पितपुष्पगन्धी ईषत्कम्पितपुष्पगन्धवान्। एवं शीतो मन्दः सुरभिः पवनो वायुरनातपत्रं व्रतार्थं परिहृतच्छत्रम्। अत एव, आतपक्लान्तमाचारेण पूतं शुद्धं तं नृपं सिषेवे। आचारपूतत्वात्स राजा जगत्पावनस्यापि सेव्य आसीदिति भावः ॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
पृ क्तस्तु षा रैर्गिरि निर्झ रा णा
नो हाम्पि पुष्प न्धी
मा क्लान्त नात्र
मा चा पू तं नःसि षे वे
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.