१९.१९

लौल्यमेत्य गृहिणीपरिग्रहान्नर्तकीष्वसुलभासु तद्वपुः ।
वर्तते स्म स कथंचिदालिखन्नङ्गुलीक्षरणसन्नवर्तिकः ॥

अन्वयः

गृहिणी-परिग्रहात् लौल्यम् एत्य अवसुलभासु नर्तकीषु (आसक्तः), अङ्गुली-क्षरण-सन्न-वर्तिकः सः तत्-वपुः कथंचित् आलिखन् वर्तते स्म।

सञ्जीविनीटीका (मल्लिनाथः)

लौल्यमिति॥ गृहिणीपरिग्रहाद्राज्ञीभिः समागमाद्धेतोर्नर्तकीषु वेश्यास्वसुलभासु दुर्लभासु सतीषु लौल्यमौत्सुक्यमेत्य प्राप्य। अङ्गुल्योः क्षरणेन स्वेदनेन सन्नवार्तिको विगलितशलाकः सोऽग्निवर्णस्तासां नर्तकीनां वपुस्तद्वपुरालिखन् कथंचिद्वर्तते स्मावर्त ॥

English Summary

Having become fickle from his life with his queens and attached to easily available dancing girls, he managed to get by, somehow painting a portrait of one of them, though his paintbrush kept slipping from his fingers.

पदच्छेदः

लौल्यम्लौल्य (२.१) fickleness
एत्यएत्य (आ√इ+ल्यप्) having attained
गृहिणीपरिग्रहात्गृहिणी–परिग्रह (५.१) from his marriage to his queens
नर्तकीषुनर्तकी (७.३) among dancers
अवसुलभासुअवसुलभ (७.३) easily available
तद्वपुःतद्-वपुस् (२.१) her body
वर्ततेवर्तते (√वृत् कर्तरि लट् (आत्मने.) प्र.पु. एक.) he existed
स्मस्म (past tense marker)
सःतद् (१.१) he
कथंचित्कथंचित् somehow
आलिखन्आलिखत् (आ√लिख्+शतृ, १.१) painting
अङ्गुलीक्षरणसन्नवर्तिकःअङ्गुली–क्षरण–सन्न–वर्तिक (१.१) whose paintbrush had fallen due to the slipping of his fingers

छन्दः

रथोद्धता [११: रनरलग]

छन्दोविश्लेषणम्

१०११
लौल्य मेत्यगृहि णी रिग्र हा
न्नर्त कीष्वसु भासुद्व पुः
र्त तेस्म थंचि दालि
न्नङ्गु लीक्षन्नर्ति कः