१४.७३

उत्खातलोकत्रयकण्टकेऽपि सत्यप्रतिज्ञेऽप्यविकत्थनेऽपि ।
त्वां प्रत्यकस्मात्कलुषप्रवृत्तावस्त्येव मन्युर्भरताग्रजे मे ॥

अन्वयः

उत्खातलोकत्रयकण्टके अपि, सत्यप्रतिज्ञे अपि, अविकत्थने अपि भरताग्रजे, त्वाम् प्रति अकस्मात् कलुषप्रवृत्तौ (सत्याम्), मे मन्युः अस्ति एव।

सञ्जीविनीटीका (मल्लिनाथः)

उत्खातेति॥ उत्खातलोकत्रयकण्टकेऽपि रावणादिकण्टकोद्धरणेन सर्वलोकोपकारिण्यपीत्यर्थः। सत्यप्रतिज्ञे सत्यसंधेऽपि। अविकत्थनेऽनात्मश्लाघिन्यपि। इत्थं स्नेहपात्रेऽपि त्वां प्रत्यकस्मादकारणात्कलुषप्रवृत्तौ गर्हितव्यापारे भरताग्रजे मे मन्युः कोपोऽस्त्येव। सर्वगुणाच्छादकोऽयं दोष इत्यर्थः। सीतानुनयार्थोऽयं रामोपालम्भः ॥

English Summary

"Even though he uprooted the thorns of the three worlds, is true to his promises, and is not a boaster, I still feel anger towards Bharata's elder brother (Rama) for his sudden, cruel action towards you."

पदच्छेदः

उत्खातलोकत्रयकण्टकेउत्खात–लोकत्रय–कण्टक (७.१) towards him who uprooted the thorns of the three worlds
अपिअपि even though
सत्यप्रतिज्ञेसत्य–प्रतिज्ञ (७.१) towards him who is true to his promise
अपिअपि also
अविकत्थनेअविकत्थन (७.१) towards him who is not a boaster
अपिअपि also
त्वाम्युष्मद् (२.१) you
प्रतिप्रति towards
अकस्मात्अकस्मात् suddenly
कलुषप्रवृत्तौकलुष–प्रवृत्ति (७.१) in his cruel action
अस्तिअस्ति (√अस् कर्तरि लट् (परस्मै.) प्र.पु. एक.) there is
एवएव indeed
मन्युःमन्यु (१.१) anger
भरताग्रजेभरत–अग्रज (७.१) towards Bharata's elder brother
मेअस्मद् (६.१) my

छन्दः

इन्द्रवज्रा [११: ततजगग]

छन्दोविश्लेषणम्

१०११
त्खा लोत्रण्ट केऽपि
त्यप्र ति ज्ञेऽप्यवित्थ नेऽपि
त्वां प्रत्य स्मात्कलुप्र वृ त्ता
स्त्ये न्युर्भ ताग्र जे मे