१३.४८
एषा प्रसन्नस्तिमितप्रवाहा सरिद्विदूरान्तरभावतन्वी ।
मन्दाकिनी भाति नगोपकण्ठे मुक्तावली कण्ठगतेव भूमेः ॥
सञ्जीविनीटीका (मल्लिनाथः) एषेति॥ प्रसन्नो निर्मलः स्तिमितो निःस्पदः प्रवाहो यस्याः सा विदूरस्यान्तरस्य मध्यवर्त्यवकाशस्य भावात्तन्वी दूरदेशवर्तित्वात्तनुत्वेनावभासमाना मन्दाकिनी नाम काचिञ्चित्रकूटनिकटगैषा सरित्। गोपकण्ठेन भूमेः कण्ठगता मुक्तावलीव। भाति। अत्र नगस्य शिरस्त्वं तदुपकण्ठस्य कण्ठत्वं च गम्यते ॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
षाप्र न्नस्तिमिप्र वा हा
रिद्वि दू रान्त भा न्वी
न्दाकि नी भाति गो ण्ठे
मु क्ता लीण्ठ ते भू मेः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.