१३.४०
तस्यायमन्तर्हितसौधभाजः प्रसक्तसंगीतमृदङ्गघोषः ।
वियद्गतः पुष्पकचन्द्रशालाः क्षणं प्रतिश्रुन्मुखराः करोति ॥
सञ्जीविनीटीका (मल्लिनाथः) तस्येति॥ अन्दतर्हितसौधभाजो जलान्तर्गतप्रासादगतस्य तस्य शातकर्णेरयं प्रस्क्तः संततः संगीतमृदङ्गघोषो वियद्गतः सन् पुष्पकस्य चन्द्रशालाः शिरोगृहाणि। चन्द्रशाला शिरोगृहम् इति हलायुधः। क्षणं प्रतिश्रुद्भिः प्रतिध्वानैर्मुखरा ध्वनन्तीः करोति। स्त्री प्रतिश्रुत्प्रतिध्वाने इत्यमरः (अमरकोशः १.६.२८ )
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
स्या न्तर्हि सौ भा जः
प्रक्त सं गीमृङ्ग घो षः
विद्ग तः पुष्पन्द्र शा लाः
क्ष णंप्र ति श्रुन्मु राः रोति
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.