१३.३९
पुरा स दर्भाङ्कुरमात्रवृत्तिश्चरन्मृगैः सार्धमृषिर्मघोनाः ।
समाधिभीतेन किलोपनीतः पञ्चाप्सरोयौवनकूटबन्धम् ॥
सञ्जीविनीटीका (मल्लिनाथः) पुरेति॥ पुरा पूर्वस्मिन्काले दर्भाङ्कुरमात्रवृत्तिस्तन्मात्राहारो मृगैः सार्धं सह चरन्, स ऋषिः समाधेस्तपसो भीतेन मघोनेन्द्रेण पञ्चानामप्सरसां यौवनम्। तद्धितार्थ- (अष्टाध्यायी २.१.५१ ) इत्यादिनोत्तरपदसमासः। तदेव कूटबन्धं कपटयन्त्रमुपनीतः। उन्माथः कूटयन्त्रं स्यात् इत्यमरः (अमरकोशः २.१०.२६ ) किलइत्यैतिह्ये मृगसाहचर्यान्मृगवदेव बद्ध इति भावः ॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
पु रा र्भाङ्कु मात्र वृत्ति
श्चन्मृ गैः सार्धमृ षिर्म घो नाः
माधि भी तेकि लो नी तः
ञ्चाप्स रो यौ कू न्धम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.