१३.४१
हविर्भुजामेधवतां चतुर्णां मध्ये ललाटंतपसप्तसप्तिः ।
असौ तपस्यत्यपरस्तपस्वी नाम्ना सुतीक्ष्णश्चरितेन दान्तः ॥
सञ्जीविनीटीका (मल्लिनाथः) हविरिति॥ नाम्ना सुतीक्ष्णः सुतीक्ष्णनामा चरितेन दान्तः सौम्योऽसाक्परस्तपस्वी। एधवतामिन्धनवताम्। काष्ठं दार्विन्धनं त्वेधः इत्यमरः (अमरकोशः २.४.१३ ) । चतुर्णां हविर्भुजामग्नीनां मधअये। ललाटं तपतीति ललाटंतपः सूर्यः। असूर्यललाटयोर्दृशितपोः (अष्टाध्यायी ३.२.३६ ) इति खश्प्रत्ययः। अरुर्द्विषत्-(६।३।६७)इत्यादिना मुमागमः। ललाटंतपः सप्तसप्तिः सप्ताश्वः सूर्यो यस्य स तथोक्तः सन्। तपस्यति तपश्चरति। कर्मणो रोमन्थतपोभ्यां वर्तिचरोः (अष्टाध्यायी ३.१.१५ ) इति क्यङअ। तपसः परस्मैपदं च(वा१७३३) इति वक्तव्यम् ॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
विर्भु जा मे तां तु र्णां
ध्ये ला टंप्त प्तिः
सौ स्यत्यस्त स्वी
ना म्नासु ती क्ष्णश्चरि ते दा न्तः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.