१३.४
गर्भं दधत्यर्कमरीचयोऽस्माद्विवृद्धिमत्राश्नुवते वसूनि ।
अबिन्धनं वह्निमसौ बिभर्ति प्रह्लादनं ज्योतिरजन्यनेन ॥
सञ्जीविनीटीका (मल्लिनाथः) गर्भमिति॥ अर्कमरीचयोऽस्मादब्धेः। अपादानात्। गर्भमम्मयं दधति। वृष्ट्यर्थमित्यर्थः। अयमर्थो दशमसर्गे ताभिर्गर्भः-(५८)इत्यत्र स्पष्टीकृतः। अयं लोकोपकारीति भावः। अत्राब्धौ वसूनि धनानि। धने रत्ने वसु स्मृतम्इति विश्वः। विवृद्धिमश्नुवते प्राप्नुवन्ति। संपद्वानित्यर्थः। असौ। आप इन्धनं दाह्यं यस्य तद्दाहकं वह्निं बिभर्ति। अपकारेऽप्याश्रितं न त्यजतीति भावः। अनेन प्रह्लादनमाह्लादकं ज्योतिश्चन्द्रोऽजनि जनितम्। जनेर्ण्यन्तात्कर्मणि लुङ्। सौम्य इति भावः ॥
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१०११
र्भं त्यर्क री यो ऽस्मा
द्वि वृद्धि त्राश्नु ते सूनि
बिन्ध नंह्नि सौबिर्ति
प्र ह्ला नं ज्योतिन्य ने
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.