१२.३४
कलत्रवानहं बाल!कनीयांसं भजस्व मे ।
इति रामो वृषस्यन्तीं वृषस्कन्धः शशास ताम् ॥
सञ्जीविनीटीका (मल्लिनाथः) कलत्रवानिति॥ वृषः पुमान्। वृषः स्याद्वासवे धर्मे सौरभेये च शुक्रले। पुंराशिमेदयोः शृङ्ग्यां मूषकश्रेष्ठयोरपि॥ इति विश्वः। वृषं पुरुषमात्मार्थमिच्छतीति वृषस्यन्ती कामुकी। वृषस्यन्ती तु कामुकी इत्यमरः (अमरकोशः २.६.९ ) सुप आत्मनः क्यच् (अष्टाध्यायी ३.१.८ ) इति क्यच्प्रत्ययः। अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि (अष्टाध्यायी ७.१.५१ ) इत्यसुगागमः। ततो लटः शत्रादेशः। उगितशअच (अष्टाध्यायी ४.१.६ ) इति ङीप्। श्लोकार्थस्तु-वृषस्कन्धो रामो वृषस्तन्तीं तां राक्षसीम् हे बाले! अहं कलत्रवान्, मे कनीयांसं कनिष्ठं भजस्वइति शशासाः ज्ञापितवान् ॥
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
त्र वा हं बा
नी यां संस्व मे
ति रा मोवृ स्य न्तीं
वृ स्क न्धः शा ताम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.