१२.१०४
रघुपतिरपि जातवेदोविशुद्धां प्रगृह्य प्रियां प्रियसुहृदि विभीषणे संगमय्य श्रियं वैरिणः ।
रविसुतसहितेन तेनानुयातः ससौमित्रिणा भुजविजितविमानरत्नाधिरूढः प्रतस्थे पुरीम् ॥
सञ्जीविनीटीका (मल्लिनाथः) रघुपतिरिति॥ रघुपतिरपि जातवेदस्यग्नौ विशुद्धां जातशुद्धिं प्रियां सीतां प्रगृह्य स्वीकृत्य। प्रियसुहृदि विभीषणे वैरिणो रावणस्य श्रियं राजलक्ष्मीं संगमय्य संगतां कृत्वा। गमेर्ण्यन्ताल्ल्यप्प्रत्ययः। मितां ह्रस्वः (अष्टाध्यायी ६.४.९२ ) इति ह्रस्वः। ल्यपि लघुपूर्वात् (अष्टाध्यायी ६.४.५६ ) इति णेरयादेशः। रविसुतसहितेन सुग्रीवयुक्तेन ससौमित्रिणा सलक्ष्मणेन तेन विभीषणेनानुयातोऽनुगतः सन् विमानं रत्नमिव विमानरत्नमित्युपमितसमासः। भुजविजितं यद्विमानरत्नं पुष्पकं तदारूढः सन्। पुरीमयोध्यां प्रतस्थे। समवप्रविभ्यः स्थः (अष्टाध्यायी १.३.२२ ) इत्यात्मनेपदम्। अत्र प्रस्थानक्रियाया अकर्मकत्वेऽपि तदङ्गभूतोद्देशक्रियापेक्षया सकर्मकत्वम्। अस्ति च धातूनां क्रियान्तरोपसर्जनकस्वार्थाभिधायकत्वम्। यथा कुसूलान्पचति इत्यादावादानक्रियागर्भः पाको विधीयत इति ॥
छन्दः नाराचम् [१८: ननरररर]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७१८
घुतिपि जा वे दोवि शु द्धांप्र गृ ह्यप्रि यां
प्रिसुहृदिवि भी णे सं य्यश्रि यं वैरि णः
विसुहि ते ते नानु या तः सौ मित्रि णा
भुविजिवि मा त्नाधि रू ढःप्र स्थेपु रीम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.