१२.१०३
यन्ता हरेः सपदि संहृतकार्मुकज्य- मापृच्छ्य राघवमनुष्ठितदेवकार्यम् ।
नामाङ्करावणशराङ्कितकेतुयष्टि- मूर्ध्वं रथं हरिसहस्रयुजं निनाय ॥
सञ्जीविनीटीका (मल्लिनाथः) यन्तेति॥ हरेरिन्द्रस्य यन्ता मातलिः सपदि संहृतकार्मुकज्यमनुष्ठितं देवकार्यं रावणवधरूपं येन तं राघवमापृच्छ्य साधु यामि इत्यामन्त्र्य। नामाङ्कैर्नामाक्षरचिह्नै रावणशरैरङ्किता चिह्निता केतुयष्टिर्ध्वजदण्डो यस्य तम्। हरीणां वाजिनां सहस्रेण युज्यत इति हरिसहस्रयुक्। तम्। यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु। हरिः इत्युभयत्राप्यमरः। रथमूर्ध्वं निनाय नीतवान् ॥
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१०१११२१३१४
न्ता रेःदि संहृ कार्मुज्य
मा पृच्छ्य रा नुष्ठि दे का र्यम्
ना माङ्क रा राङ्कि केतुष्टि
मू र्ध्वं थंरिस्रयु जंनि ना
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.