१२.१
निर्विष्टविषयस्नेहः स दशान्तमुपेयिवान् ।
आसीदासन्ननिर्वाणः प्रदीपार्चिरिवोषसि ॥
सञ्जीविनीटीका (मल्लिनाथः) निर्विष्टेति॥ स्नेहयन्ति प्रीणयन्ति पुरुषमिति स्नेहाः। पचाद्यच्। स्निह्यन्ति पुरुषा येष्विति वा स्नेहाः। अधिकरणार्थे घञन्। विषयाः शब्दादयस्त एव स्नेहाः निर्विष्टा भुक्ता विषयस्नेहा येन स तथोक्तः। निर्वेशो भृतिभोगयोःइति विश्वः। दशा जीवनावस्था तस्या अन्तं वार्घकमुपेयिवान्। स दशरथः। उषसि प्रदीपार्चिरिव दीपज्वालेव। आसन्नं निर्वाणं मोक्षो यस्य स तथोक्त आसीत्। अर्चिःपक्षे तु- विषयो देश आश्रयः। भाजनमिति यावत्। विषयः स्यादिन्द्रियार्थे देशे जनपदेऽपि च इति विश्वः। स्नेहस्तैलादिकरसे द्रवे स्यात्सौहृदेऽपि च इति विश्वः। दशा वर्तिका। दशा वर्ताववस्थायाम् इति विश्वः। निर्वाणैविनाशः। निर्वाणं निर्वृतौ मोक्षो विनाशे गजमज्जनेइति यादवः ॥
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
नि र्विष्टवि स्ने हः
शान्तमु पेयि वान्
सी दान्न नि र्वा णः
प्र दी पार्चिरि वोसि
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.