११.४२
एवमाप्तवचनात्स पौरुषं काकपक्षकधरेऽपि राघवे ।
श्रद्धधे त्रिदशगोपमात्रके दाहशक्तिमिव कृष्णवर्त्मनि ॥
सञ्जीविनीटीका (मल्लिनाथः) एवमिति॥ एवमाप्तस्य मुनेर्वचनात्स जनकः काकपक्षकधरे बालेऽपि राघवे पुरुषस्य कर्म पौरुषं पराक्रमम्। हायनान्तयुवादिभ्योऽण् (अष्टाध्यायी ५.१.१३० ) इति युवादित्वादण्। पौरुषं पुरुषस्योक्तं भावे कर्मणि तेजसिइति विश्वः। त्रिदशगोप इन्द्रगोपकीटः प्रमाणमस्य त्रिदशगोपमात्रः। प्रमाणे द्वयसच्- (अष्टाध्यायी ५.२.३७ ) इत्यादिना मात्रच्प्रत्ययः। ततः स्वार्थे कप्रत्ययः। तस्मिन्कृष्णवर्त्मनि वह्नौ दाहशक्तिमिव। श्रद्वधे विश्वस्तवान् ॥
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१०११
माप्त नात्स पौरु षं
काक्ष रेऽपि रा वे
श्रद्ध धेत्रि गो मात्र के
दाक्तिमि कृष्णर्त्मनि
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.