११.४१
प्रत्युवाच तमृषिर्निशम्यतां सारतोऽयमथवा गिरा कृतम् ।
चाप एव भवतो भविष्यति व्यक्तशक्तिरशनिर्गिराविव ॥
सञ्जीविनीटीका (मल्लिनाथः) प्रतीति॥ ऋषिस्तं प्रत्युवाच। किमिति? अयं रामः सारतो बलेन निशम्यतां श्रूयताम्। अथवा गिरा । सारवर्णनया कृतमलम्। गीर्न वक्तव्येत्यर्थः। युगपर्याप्तयोः कृतम् इत्यमरः (अमरकोशः ३.३.८४ ) । अव्ययं चैतत्। कृतं निवारणनिषेधयोः इति गणव्याख्याने। गिराइति करणे तृतीया; निषेधक्रियां प्रति करणत्वात्। किंत्वशनिर्वज्रो गिराविव। चापे धनुष्येव भवतस्तव व्यक्तशक्तिर्दृष्टसारो भविष्यति ॥
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१०११
प्रत्यु वामृ षिर्निम्य तां
सा तोऽय वागि राकृ तम्
चा तो विष्यति
व्यक्तक्ति निर्गि रावि
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.