११.४
तौ निदेशकरणोद्यतौ पितुर्धन्विनौ चरणयोर्निपेततुः ।
भूपतेरपि तयोः प्रवत्स्यतोर्नम्रयोरुपरि बाष्पबिन्दवः ॥
सञ्जीविनीटीका (मल्लिनाथः) ताविति॥ निदेशकरणोद्यतौ पित्राज्ञाकरणोद्युक्तौ धन्विनौ धनुष्मन्तौ तौ कुमारौ पितुश्चरणयोर्निपेततुः। प्रणतावित्यर्थः। भूपतेरपि बाष्पबिन्दवः प्रवत्स्यतोः प्रवासं करिष्यतोः। अत एव नम्नयोः प्रणतयोः। नमिकम्पि- (अष्टाध्यायी ३.२.१६७ ) इति रप्रत्ययः। तयोरुपरि निपेततुः पतिताः ॥
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१०११
तौनि दे णोद्य तौपितु
र्धन्वि नौ योर्नि पे तुः
भू तेपि योःप्रत्स्य तो
र्नम्र योरुरि बाष्प बिन्द वः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.