११.२४
तत्र दीक्षितमृषिं ररक्षतुर्विघ्नतो दशरथात्मजौ शरैः ।
लोकमन्धतमसात्क्रमोदितौ रश्मिभिः शशिदिवाकराविव ॥
सञ्जीविनीटीका (मल्लिनाथः) तत्रेति॥ तत्र तपोवने दशरथात्मजौ दीक्षितं दीक्षासंस्कृतमृषिं शरैर्विघ्नतो विघ्नेभ्यः क्रमेण पर्यायेण रात्रि-दिवसयोरुदितौ शशि-दिवाकरौ रश्मिभिरन्धतमसाद्गढध्वान्तात्। ध्वान्ते गाढेऽन्धतमसम् इत्यमरः (अमरकोशः १.८.३ ) अवसमन्धेभ्यस्तमसः (अष्टाध्यायी ५.४.७९ ) इति समासान्तोऽच्प्रत्ययः। लोकमिव। ररक्षतुः। रक्षणप्रवृत्तावभूतामित्यर्थः ॥
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१०११
त्र दीक्षिमृ षिंक्षतु
र्विघ्न तो थात्म जौ रैः
लोन्ध सात्क्र मोदि तौ
श्मि भिःशिदि वा रावि
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.