११.२५
वीक्ष्य वेदिमथ रक्तबिन्दुभिर्बन्धुजीवपृथुभिः प्रदूषिताम् ।
संभ्रमोऽभवदपोढकर्मणामृत्विजां च्युतविकङ्कतस्रुचाम् ॥
सञ्जीविनीटीका (मल्लिनाथः) वीक्ष्येति॥ अथ बन्धुजीवपृथुभिर्बन्धुजीवककुसुमस्थूलैः। रक्तकस्तु बन्धूको बन्धुजीवकः इत्यमरः (अमरकोशः २.४.७३ ) । रक्तबिन्दुभिः प्रदूषितामुपहतां वेदिं वीक्ष्य। अपोढकर्मणां त्यक्तव्यापाराणां च्युता विकङ्कतस्रुचो येभ्यस्तेषामृत्विजां याजकानां संभ्रमोऽभवत्। विकङ्कतग्रहणं खदिराद्युपलक्षणम्। स्रुवादीनां खदिरादिप्रकृतिकत्वात्। स्रुगादिपात्रस्यैव विकङ्कतप्रकृतिकत्वात्। विकङअकतः स्रुचां वृक्षः इत्यमरः (अमरकोशः २.४.७३ ) । यद्वा, -स्रुङ्मात्रस्य विकङ्कतप्रकृतिकत्वमस्तु; उभयत्रापि शास्त्रसंभवात्। यथाह भगवानापस्तम्बः-स्रुङ्मात्रस्य विकङ्कतप्रकृतिकत्वमस्तु; उभयत्रापि शास्त्रसंभवात्। यथाह भगवानापस्तम्बः-खादिरः स्रवः पर्णमयी जुहूराश्वत्थ्युपभृद्वैकङ्कतीः स्रुचो वा`इति ॥
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१०११
वीक्ष्य वेदिक्त बिन्दुभि
र्बन्धु जीपृथु भिःप्र दूषि ताम्
संभ्र मोऽभ पोर्म णा
मृत्वि जांच्युविङ्कस्रु चाम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.