११.२१
नैर्ऋतघ्नमथ मन्त्रवन्मुनेः प्रापदस्त्रमवदानतोषितात् ।
ज्योतिरिन्धननिपाति भास्करात्सूर्यकान्त इव ताडकान्तकः ॥
सञ्जीविनीटीका (मल्लिनाथः) नैर्ऋतेति॥ अथानन्तरं ताडकान्तको रामः। अवदानं पराक्रमः। पराक्रमोऽवदानं स्यात् इति भागुरिः। तेन तोषितान्मुनेः। नैर्ऋतान्राक्षसान्तीति नैर्ऋतघ्नम्। अमनुष्यकर्तृके च (अष्टाध्यायी ३.२.५३ ) इति टक्। मन्त्रवन्मन्त्रयुक्तमस्त्रम्। सूर्यकान्तो मणिविशेषो भास्करादिन्धनानि निपातयतीतीन्धननिपाति काष्ठदाहकं ज्योतिरिव। प्रापत् प्राप्तवान् ॥
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१०११
नैरृघ्नन्त्रन्मु नेः
प्रास्त्र दा तोषि तात्
ज्योति रिन्धनि पाति भास्क रा
त्सूर्य कान्त ता कान्त कः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.