११.२०
राममन्मथशरेण ताडिता दुःसहेन हृदये निशाचरी ।
गन्धवद्रुधिरचन्दनोक्षिता जीवितेशवसतिं जगाम सा ॥
सञ्जीविनीटीका (मल्लिनाथः) रामेति॥ सा। निशासु चरतीति निशाचरी राक्षसी, अभिसारिका च। दुःसहेन सोढुमशक्येन। राम एव मन्मथः। अन्यत्र, -अभिरामो मन्मथः। तस्य शरेण हृदय उरसि मनसि च। हृदयं मनउरसोःइति विश्वः। ताडिता विद्धाङ्गा गन्धबद्दुर्गन्धि यद्रुधिरमसृक् तदेव चन्दनं तेनोक्षिता लिप्ता। अपरत्र, -गन्धवती सुगन्धिनी ये रुधिरचन्दने कुङ्कुमचन्दने ताभ्यामुक्षिता, रुधिरे कुङ्कुमासृजोः इत्युभयत्रापि विश्वः। जीवितेशस्यान्तकस्य, प्राणेश्वरस्य च। वसतिं जगाम ॥
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१०११
रान्म रे ताडि ता
दुः हेहृ येनि शा री
न्धद्रुधिन्द नोक्षि ता
जीवि ते तिं गा सा
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.