११.१९
बाणभिन्नहृदया निपेतुषी सा स्वकाननभुवं न केवलाम् ।
विष्टपत्रयपराजयस्थिरां रावणश्रियमपि व्यकम्पयत् ॥
सञ्जीविनीटीका (मल्लिनाथः) बाणेति॥ बाणभिन्नहृदया निपेतुषी निपतिता सती। क्कसुश्च (अष्टाध्यायी ३.२.१०७ ) इति क्वसुप्रत्ययः। उगितश्च (अष्टाध्यायी ४.१.६ ) इति ङीप्। सा केवला मेकाम्। निर्णीते केवलमिति त्रिलिङ्गं त्वेककृत्स्नयोः इत्यमरः (अमरकोशः ३.३.२१२ ) । स्वकाननभुवं न व्यकम्पयत्। किंतु विष्टपत्रयस्य लोकत्रयस्य पराजयेन स्थिरां रावणश्रियमपि व्यकम्पयत्। ताडकावधश्रवणेन रावणस्यापि भयमुत्पन्नमिति भावः ॥
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१०११
बा भिन्नहृ यानि पेतु षी
सास्व काभु वं के लाम्
विष्टत्र रास्थि रां
राश्रि पिव्यम्प यत्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.