११.१४
तौ सुकेतुसुतया खिलीकृते कौशिकाद्विदितशापया पथि ।
निन्यतुः स्थलनिवेशिताटनी लीलयैव धनुषी अधिज्यताम् ॥
सञ्जीविनीटीका (मल्लिनाथः) ताविति॥ अत्र रामायणवचनम्(बाल.२५।१२-१३)-अगस्त्यः परम कुद्धस्ताडकामभिशप्तवान्। पुरुषादी महायक्षी विकृता विकृतानना। इदं रूपमपाहाय दारुणं रूपमस्तु ते॥ इति। तदेतदाह-विदितशापयेति। कौशिकादाख्यातुः आख्यातोपयोगे (अष्टाध्यायी १.४.२९ ) इत्यपादानात्पञ्चमी। विदितशापया सुकेतुसुतया ताडकया खिलीकृते पथि। खिलमप्रहतं स्थानम् इति हलायुधः। तौ रामलक्ष्मणौ। स्थले निवेशिते अटनी धनुःकोटी याभ्यां तौ तथोक्तौ। कोटिरस्याटनिः इत्यमरः (अमरकोशः २.८.८४ ) । लीलयैव धनुषी। अधिकृते ज्ये मौर्व्यौ ययोस्ते अधिज्ये। ज्या मौर्वीमातृभूमिषुइति विश्वः। तयोर्भावस्तत्तामधिज्यतां निन्यतुर्नीतवन्तौ। नयतिर्द्विकर्मकः ॥
छन्दः रथोद्धता [११: रनरलग]
छन्दोविश्लेषणम्
१०११
तौसु केतुसु याखि लीकृ ते
कौशि काद्विदि शा याथि
निन्य तुःस्थनि वेशि ता नी
ली यैनु षी धिज्य ताम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.